अवसितललितक्रियेण बाह्वो-
र्ललिततरेण तनीयसा युगेन ।
सरसकिसलयानुरञ्जितैर्वा
करकमलैः पुनरुक्तरक्तभाभिः ॥

मल्लिनाथः अवसितेति ॥ पुनरवसिताः श्रमेण परिसमाप्ता ललिताः क्रियाः सुकुमारचेष्टा अपि यस्य तेन ललिततरेण मृदुतरेण तनीयसा तनुतरेण बाह्वोर्युगेन पुनः सरसैरार्द्रैः किसलयैरनुरञ्जितैर्वा अनुरञ्जनं प्रापितैरिव पुनरुक्ता द्विगुणा रक्ता भासो येषां तैः पुनरुक्तरक्तभाभिः। `हलि सर्वेषाम्` (अष्टाध्यायी ८.३.२२ ) इति यकारलोपः। करकमलैः पाणिपङ्कजैः । अत्रेतरजनकरापेक्षया पुनरुक्तरक्तत्वं स्वाभाविकमेव । तत्र किसलयरञ्जनहेतुकत्वमुत्प्रेक्ष्यते । इवार्थे वाशब्दस्तदुत्प्रेक्षायां प्रयुक्तः
छन्दः पुष्पिताग्रा []
छन्दोविश्लेषणम्
१० ११ १२ १३
सि लि क्रि ये बा ह्वो
र्ल लि रे नी सा यु गे
कि या नु ञ्जि तै र्वा
लैः पु रु क्त क्त भा भिः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.