अदिकमरुणिमानमुद्वहद्भिर्विकसदशीतमरीचिरशमिजालैः । परिचितपरिचुम्बनाभियोगादपगतकुङ्कुमरेणुभिः कपोलैः ॥

मल्लिनाथः अधिकमिति ॥ पुनः परिचितानां प्रणयिनां परिचुम्बनैरभियोगान्मर्दनादपगतकुङ्कुमरेणुभिः अत एव विकसन्ति वैमल्यात्प्रतिफलन्ति अशीतमरीचेरुष्णांशो रश्मिजालानि येषु तैः । असंबन्धे संबन्धोक्त्यातिशयोक्तिः । अत एवाधिकमरुणिमानमुद्वहद्भिः । कुङ्कुमापायेऽप्यातपलङ्घनादतिलोहितैरित्यर्थः । कपोलैर्गण्डस्थलैः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.