Loading data... On slow networks this could take a few minutes.
100%

अतियपरिणाह्ववान्वितेने बहुतरमर्पितकिङ्किणीकः । अलघुनि जघनस्थलेऽपरस्या ध्वनिमधिकं कलमेखलाकलापः ॥

मल्लिनाथः अतिशयेति ॥ अतिशयेन परिणाहवान् । अतिविशाल इत्यर्थः । अन्यथा तजघनस्य पर्याप्तेरिति भावः । `परिणाहो विशालता` इत्यमरः । `उपसर्गादसमासेऽपि णोपदेशस्य` (८|४|१४) इति णत्वम् । बहुतरमर्पिता आहिता रवानां किङ्किण्यो यस्मिन् सः । `नद्यृतश्च` (अष्टाध्यायी ५.४.१५३ ) इति कप्प्रत्ययः । कलो मधुरारावी मेखलाकलापोऽपरस्याः स्त्रियः अलघुनि जघनस्थलेऽधिकं ध्वनि वितेने । तदलंकृतिरियम्
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.