Loading data... On slow networks this could take a few minutes.
100%

इदमिदमिति भूरुहां प्रसूनै-
र्मुहुरतिलोभयता पुरःपुरोऽन्या ।
अनुरहसमनायि नायकेन
त्वरयति रन्तुमहो जनं मनोभूः ॥

मल्लिनाथः इदमिदमिति ॥ अन्या स्त्री इदमिदमिति । इदं ग्राह्यमिदं ग्राह्यमित्युक्त्वेत्यर्थः । भूरुहां वृक्षाणां प्रसूनैः पुष्पैः पुरःपुरो मुहुरतिलोभयता प्रलोभयता नायकेन रहोऽनु अनुरहसमेकान्तम् । `अन्ववतप्तात्-` (अष्टाध्यायी ५.४.८१ ) इत्यव्ययीभावः समासान्तः । अनायि नीता । तथा हि—मनोभूः कामो जनं रन्तुं त्वरयति । देशकालानपेक्षयेति भावः । अत एवाश्चर्यमहो इति । पूर्ववन्नायिकानायकविवेकः । अर्थान्तरन्यासः
छन्दः पुष्पिताग्रा []
छन्दोविश्लेषणम्
१० ११ १२ १३
मि मि ति भू रु हां प्र सू नै
र्मु हु ति लो ता पु रः पु रो ऽन्या
नु ना यि ना के
त्व ति न्तु हो नं नो भूः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.