Loading data... On slow networks this could take a few minutes.
100%

उपरिजतरुजानि याजमानां
कुशलतया परिरम्भलोलुपोऽन्यः ।
प्रथितपृथुपयोधरां गृहाण
स्वयमिति मुग्धवधूमुदास दोर्भ्याम् ॥

मल्लिनाथः उपरिजेति ॥ उपरिजान्युपरि जातानि तरोर्जातानि तरुजानि कुसुमानि तानि याचमानां अपचित्य देहीति प्रार्थयमानां प्रथितपृथुपयोधरां प्रशस्तपीवरकुचां मुग्धवधूमकुटिलधियं स्त्रियं परिरम्भलोलुप आश्लेपलालसोऽन्यः कुशलतया वञ्चनापटुतया स्वयं गृहाण । त्वमेवापचिनुष्वेत्यर्थः । इति गम्यमानार्थत्वादुक्त्वेति न प्रयुक्तं पौनरुक्त्यात् । दोर्भ्यामुदास उद्यच्छति स्म । अयं चैकायत्तत्वादनुकूलनायकः । नायिका तु स्वाधीनपतिका प्रौढा च
छन्दः पुष्पिताग्रा []
छन्दोविश्लेषणम्
१० ११ १२ १३
रि रु जा नि या मा नां
कु या रि म्भ लो लु पो ऽन्यः
प्र थि पृ थु यो रां गृ हा
स्व मि ति मु ग्ध धू मु दा दो र्भ्याम्
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.