विजनमिति बलादमुं गृहीत्वा क्षणमथ वीक्ष्य विपक्षमन्तिकोऽन्या । अभिपतितुमना लघुत्वभीतेरभवदमुञचति वल्लभेऽतिगुर्वी ॥

मल्लिनाथः विजनमिति ॥ अन्या स्त्री विजनमेकान्तमिति हेतोरमुं वल्लभं क्षणं बलाद्गृहीत्वा आकृष्य अथान्तिके विपक्षं सपत्नीजनं वीक्ष्य लघुत्वभीतेस्तुच्छत्वभयादभिपतितुं मनो यस्याः सा अभिपतितुमनाः । `तुं काममनसोरपि` इति मकारलोपः । अपसर्तुकामेत्यर्थः । वल्लभे अमुञ्चत्यत्यजति सति । तस्य विपक्षानवेक्षणादिति भावः । अतिगुर्व्यतिगौरववत्यभवत् । स्वयंग्रहलाघवतिरोधानाद्भर्तृवल्लभत्वप्रकाशनाच्चेति भावः । भाग्यवतां सर्वं श्रेयसे भवतीति रहस्यम् । एषा त्वतिप्रगल्भैव
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.