नखरुचिरचिन्द्रचापं ललितगतेषु गतागतं दधाना । मुखरितवलयं पृथौ नितम्बे भुजलतिका मुहुरस्खलत्तरुण्याः ॥

मल्लिनाथः नखेति ॥ ललितगतेषु मन्दगमनेषु नखानां रुचिभिः प्रभाभी रचिता इन्द्रचापलेखा यस्मिन्कर्मणि तद्यथा तथा गतागतं यातायाते । `विप्रतिषिद्धं चानधिकरणवाचि` (अष्टाध्यायी २.४.१३ ) इति वैभाषिको द्वन्द्वैकवद्भावः । दधाना तरुण्याः भुजलतिका मुखराः कृता इति मुखरिताः ध्वनिता वलया यस्मिन्कर्मणि तद्यथा तथा । `कटको वलयोऽस्त्रियाम्` इत्यमरः । पृथौ नितम्बे मुहुरस्खलच्चस्खाल । अत्र नखरुचीत्यालम्बनगुण उक्तः । गतागतं दधाना अस्खलदिति तच्चेष्टा । मुखरितवलयभिति तदलंकृतिः । तटस्थास्तूक्ता वसन्तादयः । अन्यत्र विस्तारत इति चतुर्विधोऽप्युद्दीपनक्रम उक्तः । उक्तं च-`आलम्बनगुणाश्चैव तच्चेष्टा तदलंकृतिः । तटस्थश्चेति विज्ञेयश्चतुष्कोद्दीपनक्रमः ॥` इति । तत्रालम्बनं रसस्य समवायिकारणं नायिका नायकश्च । तद्गुणो रूपलावण्यादिः । तच्चेष्टा भावहावादिः । अन्यत्सुगमम् । एवमुत्तरत्रापि
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.