मृदुचरणतलाग्रदुःस्थितत्वा-
दसहतरा कुचकुम्भयोर्भरस्य ।
उपरिनिरवलम्बनं प्रियस्य
न्यपतदथोच्चतरोच्चिचीषयान्या ॥

मल्लिनाथः मृद्विति ॥ अन्या स्त्री उच्चतराणामत्युन्नतकुसुमानामुच्चेतुमवचेतुमिच्छया उच्चतरोच्चिचीषया । चिनोतेः सन्नन्तात्स्त्रियामप्रत्यये टाप् । `विभाषा चेः` (७॥ ३।५८) इति कुत्वविकल्पः । मृदुचरणतलाग्रेण दुःस्थितत्वादुःखेन स्थितत्वात् कुचकुम्भयोर्भरस्य `पुंसि संज्ञायां घः प्रायेण` (अष्टाध्यायी ३.३.११८ ) इति घप्रत्ययः । न सहतेऽत्यन्तमित्यसहतरा । सहेः पचाद्यजन्तान्नन्समासात्तरप्प्रत्ययः । भरमसहमानेत्यर्थः । कृद्योगात्कर्मणि षष्ठी । अथास्मिन्नवसरे निरवलम्बनं यथा तथा प्रियस्योपरि न्यपतत् । निरवलम्बनत्वान्निपपातेत्यर्थः । एषा च प्रौढा । स्वभावोक्तिरलंकारः
छन्दः पुष्पिताग्रा []
छन्दोविश्लेषणम्
१० ११ १२ १३
मृ दु ला ग्र दुः स्थि त्वा
रा कु कु म्भ यो र्भ स्य
रि नि म्ब नं प्रि स्य
न्य थो च्च रो च्चि ची या न्या
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.