Loading data... On slow networks this could take a few minutes.
100%

अवसमधिगम्य तं हरन्तयो हृदयमयत्नकृतोज्वलस्वरूपाः । अवनिषु पदमङ्गनास्तदानीं न्यदधत विभ्रमसम्पदोऽङगनासु ॥

मल्लिनाथः अवसरमिति ॥ तमवसरं सहजिगमिषाकालमधिगम्य हृदयं हरन्त्यो हृदयंगमा भवन्त्यः । सर्वं हि प्रार्थ्यमानमेव प्रियं भवतीत्यर्थः । यत्नेन कृतं न भवतीत्ययत्नकृतं तथाप्युज्वलं स्वरूपं यासां ताः । स्वभावसुन्दरमूर्तय` इत्यर्थः । अङ्गनास्तदानीं तस्मिन्नवसरेऽवनिषु पदं न्यदधत निहितवत्यः । पादचारेणैव चेलुरित्यर्थः । दधातेर्लङि `आत्मनेपदेष्वनतः` (७।१|५) इति झस्यादादेशः । अङ्गनासु विभ्रमसंपदो विलाससंपदः पदं न्यदधत । तदानीं विलासाः प्रवृत्ता इत्यर्थः । अत्राङ्गनानां विलाससंपदां चोभयीनामपि प्रकृतानामेव हृदयहरणादिना वर्णनासाम्येनौपम्यस्य गम्यमानत्वात् केवलप्रकृतविषया तुल्ययोगितालंकारः । वाच्यभेदेनाप्यङ्गनाविलाससंपदामुत्तरोत्तरस्य पूर्वपूर्वविशेषकत्वावगमादेकावलीभेदो व्यज्यत इत्यलंकारेणालंकारध्वनिः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.