Loading data... On slow networks this could take a few minutes.
100%

किसलयशकलेष्ववाचनीयाः
पुलकिनि केवलमङ्गकेनिधेयाः ।
नखपदलिपयोऽपि दीपितार्थाः
प्रणिदधिरे दयितैरनङ्गलेखाः ॥

मल्लिनाथः किसलयेति ॥ किसलयशकलेषु । वर्तमाना इति शेषः । अवाचनीयाः प्रसिद्धलिपिवैलक्षण्याद्वाचयितुमनर्हाः किंतु केवलं पुलकिनि दयितस्पृष्टत्वात्तत्स्पर्शादेव रोमाञ्चवत्यङ्गके वपुषि निधेया विरहतापशान्त्यर्थमर्पणीयाः । कुतः । नखपदानि नखाङ्का एव लिपयोऽक्षराणि येषु ते न तु प्रसिद्धाक्षराः । अतोऽवाचनीया इत्यर्थः । नैतावतानुतापकारित्वं चेत्याह-तथापि दीपितार्थाः संकेतितसंनिवेशवशादेव घोतिताभिधेया लिख्यन्त इति लेखाः । कर्मणि घञ्प्रत्ययः । अन ङ्गस्य लेखाः । तत्प्रयुक्ता इत्यर्थः । दयितैः दयिताभिः दयितैश्च । `पुमान्स्त्रिया` (१/२।६७) इत्येकशेषः । प्रणिदधिरे प्रणिहिताः । लिखिता इत्यर्थः । दधाते: कर्मणि लिट् । `नेर्गदनद(८/४/१७) इत्यादिना नकारस्य णत्वम् । लोकप्रसिद्धलेख्यवैलक्षण्याव्द्यतिरेकालंकारः
छन्दः पुष्पिताग्रा []
छन्दोविश्लेषणम्
१० ११ १२ १३
कि ले ष्व वा नी याः
पु कि नि के ङ्ग के नि धे याः
लि यो ऽपि दी पि ता र्थाः
प्र णि धि रे यि तै ङ्ग ले खाः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.