Loading data... On slow networks this could take a few minutes.
100%

अवनदवदनेन्दुरिच्छतीव
व्यवधिमधीरतया यदस्थितास्मै ।
अहरत सुतरामतोऽस्य चेतः
स्फुटमभिभूषयति स्त्रियस्त्रपैव ॥

मल्लिनाथः (षड्भिः कुलकम् ।) अवनतेति ॥ अवनतवदनेन्दुः । लजया नम्रमुखीत्यर्थः । अधीरतया अधृष्टतया व्यवधिं किंचिव्ध्यवधानम् । `उपसर्गे घोः किः` (अष्टाध्यायी ३.३.९२ ) इति किप्रत्ययः । इच्छती वाञ्छन्तीव । तथा व्याकुला सतीत्यर्थः । `आच्छीनद्योर्नुम्` (अष्टाध्यायी ७.१.८० ) इति विकल्पान्नुमभावः । अस्मै प्रियाय अस्थित । आत्मानं प्रकाशयन्ती स्थितेत्यर्थः । तिष्ठतेः कर्तरि लुङ् । `प्रकाशनस्थेयाख्ययोश्च` (१/३।२३) इत्यात्मनेपदं `स्थाध्वोरिच` (अष्टाध्यायी १.२.१७ ) इति सिचः कित्त्वमिकारश्च धातोरन्तादेशः कित्त्वान्न गुणः । इति यदतो हेतोरस्य प्रियस्य चेतः सुतरामहरत । तथा हि—त्रपैव स्त्रियोऽभिभूषयति स्फुटम् । प्रसिद्धमित्यर्थः । अतोऽस्या अपि त्रपाभूषितत्वादतिमनोहरत्वं युक्तमिति भावः । कुलकार्थान्तरन्यासौ । मध्या चेयं नायिका । `लज्जामन्मथमध्यस्था मध्यमोदितयौवना` इति लक्षणात्
छन्दः पुष्पिताग्रा []
छन्दोविश्लेषणम्
१० ११ १२ १३
ने न्दु रि च्छ ती
व्य धि धी या स्थि ता स्मै
सु रा तो ऽस्य चे तः
स्फु भि भू ति स्त्रि स्त्र पै
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.