Loading data... On slow networks this could take a few minutes.
100%

कृतभयपरितोषसन्निपातं सचकितसस्मितवक्त्रवारिजश्रीः । मनसिजगुरुतत्क्षणोपदिष्टं किमपि रासेन रसन्तरं भजन्ती ॥

मल्लिनाथः कृतभयेति ॥ किंच कृतः भयपरितोषयोः भर्तृदर्शनोत्थसाध्वसहर्षयोः संनिपातः संकरो येन तत् । मनसि जातो मनसिजः स्मरः । `सप्तम्यां जनेर्ड:` (अष्टाध्यायी ३.२.९७ ) । `हलदन्तात्सप्तम्याः संज्ञायाम्` (अष्टाध्यायी ६.३.९ ) इत्यलुक् । स एव गुरुराचार्य स्तेन तत्क्षणे उपदिष्टम् । तदेकहेतुकमित्यर्थः । किमप्यनिर्वाच्यं रसान्तरं लक्षणया भावान्तरं तच्चेह किलकिंचिताख्यं विवक्षितम् । कृतभयेत्यादिविशेषणेन क्रोधाश्रुहर्षभीत्यादेः संकरः । किलकिंचितमिति लक्षणार्थस्य प्रतीतेः । रसेन रागेण हेतुना भजन्ती अत एव सचकिता सभयसंभ्रमा । `चकितं भयसंभ्रमः` इत्यमरः । सस्मिता हर्षात् समन्दहासा वक्रवारिजश्रीर्यस्याः सा सती । अत्र चकितस्मितयोः पूर्वोक्तभयहर्षानुभावत्वेनोक्तिः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.