अथ किल कथिते सखीभिरत्र
क्षणमपरेव ससंभ्रमा भवन्ती ।
शिथिलितकुसुमाकुलाग्रपाणिः
प्रतिपदसंयमितांशुकावृताङ्गी ॥

मल्लिनाथः अथेति ॥ अथ विलम्बानन्तरमत्रास्मिन्प्रिये सखीभिः कथिते सति किलायमत्रैवास्त इति निवेदिते सति क्षणं ससंभ्र मा अपरेव पूर्वविपरीतव्यापारकारणादन्येव भवन्ती । बुद्धिपूर्वकारित्वमज्ञाननाटनेन वञ्चयन्तीत्यर्थः । शिथिलितः पुष्पग्रहणान्निवर्तितः कुसुमाकुलः कुसुमव्याहतोऽग्रपाणिर्यया सा तथोक्ता प्रतिपदं प्रतिस्थानं संयमितेन नियमितेनांशुकेन । `अंशुकं सूक्ष्मवस्त्रे स्यात्` इति विश्वः । वस्त्रेणावृतमङ्गं यस्याः सा तथोक्ता सती
छन्दः पुष्पिताग्रा []
छन्दोविश्लेषणम्
१० ११ १२ १३
कि थि ते खी भि त्र
क्ष रे सं भ्र मा न्ती
शि थि लि कु सु मा कु ला ग्र पा णिः
प्र ति सं मि तां शु का वृ ता ङ्गी
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.