Loading data... On slow networks this could take a few minutes.
100%

दधति सुमनसो वनानि बह्वीर्युवतियुता यदवः प्रयातुमीषुः । मनसिमहास्त्रमन्यथामी न कुसुमपञ्चकमलं विसोढुम् ॥

मल्लिनाथः दधतीति ॥ यदवो यादवाः । व्याख्यातं चैतत् । बह्वीबहूः । बहुविधा इत्यर्थः । `बह्वादिभ्यश्च` (अष्टाध्यायी ४.१.४५ ) इति विकल्पादीकारः । सुमनसः पुष्पाणि । `स्त्रियः सुमनसः पुष्पम्` इत्यमरः । दधति दधन्ति । `वा नपुंसकस्य` (७।११७९) इति अभ्यस्ताच्छतुर्वैकल्पिको नुम्प्रतिषेधः । वनानि युवतियुताः स्त्रीसमेता एव प्रयातुमीषुरिच्छन्ति स्म । अत्र हेतुमाह-अन्यथा युवतिजनाभावे अमी यदवो मनसि शेते इति मनसिशयः कामः । `अधिकरणे शेतेः` (अष्टाध्यायी ३.२.१५ ) इत्यच्प्रत्ययः । `हलदन्तात्सप्तम्याः संज्ञायाम्` (अष्टाध्यायी ६.३.९ ) इत्यलुक् । तस्य महास्त्रभूतं कुसुमपञ्चकमपि । पञ्चापि कुसुमानीत्यर्थः । पञ्चानां सङ्घः पञ्चकम् । `संख्यायाः संज्ञासङ्घसूत्राध्ययनेषु` (अष्टाध्यायी ५.१.५८ ) इति कप्रत्ययः । विसोढुं नालं न शक्ताः । सकलसुमनसां सामर्थ्ये तत्रारविन्दादीनामेव पञ्चबाणबाणत्वस्य संभवप्रमाणसिद्धत्वादिति भावः । अतो युवतिभिः सह प्रयाणं युक्तमिति वाक्यार्थेन वाक्यार्थसम र्थनाद्वाक्यार्थसमर्थनरूपकाव्यलिङ्गमलंकारः ।`अरविन्दमशोकं च चूतं च नवमल्लिका । नीलोत्पलं च पञ्चैते पञ्चबाणस्य सायकाः`
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.