मधुमथनवधूरिवाह्वयन्ति भ्रमरकुलानि जगुर्यदुत्सुकानि । तदभिनयमिवावलिर्वनानामतनुत नूतनपल्लवाङुगुलीभिः ॥
मधुमथनवधूरिवाह्वयन्ति भ्रमरकुलानि जगुर्यदुत्सुकानि । तदभिनयमिवावलिर्वनानामतनुत नूतनपल्लवाङुगुलीभिः ॥
मल्लिनाथः
मध्विति ॥ उत्सुकान्युन्मनांसि भ्रमरकुलानि मधुमथनस्य हरेर्वधूराह्वयन्त्याकारयन्तीवेत्युत्प्रेक्षा । हूतिराकारणाह्वानम्` इत्यमरः । `शपश्यनोर्नित्यम्` (७/१/८१) इति ह्वयतेः शतुर्नुमागमः । जगुरिति गायतेर्लिट् । वनानामावलिनूतनपल्लवा एवाङ्गुल्य इत्येकदेशवर्तिसावयवरूपकम् । अस्यैव वनावलौ नर्तकीत्वरूपगमकत्वादिति । ताभिस्तदभिनयं व्यञ्जकचेष्टामतनुतेव । `व्यञ्जकाभिनयौ समौ` इत्यमरः । `अङ्गैरालम्बयेद्गीतं हस्तेनार्थं प्रदर्शयेत्` इति वचनात् । गीतार्थ. स्याह्वानस्य व्यञ्जनमङ्गुलिभिरकार्षीदिवेति क्रियास्वरूपोत्प्रेक्षा । पूर्वोक्तरूपकानुप्राणिता साह्वानोत्प्रेक्षासापेक्षेति सजातीयसंकरोऽपीति
Other texts to read
About
Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.