Loading data... On slow networks this could take a few minutes.
100%

असकलकलिकाकुलीकृतालिस्खलनविकीर्णविकासिकेशराणाम् । मरुदवनिरुहां रजो वधूभ्यः मुपहरन्विचकार कोरकाणि ॥

मल्लिनाथः &#३२; असकलेति ॥ मरुद्वनानिलः असकला असमग्राः । अर्धविकचा इत्यर्थः । ताभिः कलिकाभिः कोरकैराकुलीकृतानां संक्षोभितानामलीनां स्खलनेन विघट्टनेन विकीर्णा विक्षिप्ता विकासिनः केशराः किंजल्का येषां तेषामवनिरुहाम् । क्विप् । रजः परागं वधूभ्यः समुपहरन् प्रयच्छन् । यथा कश्चित्कामीति भावः । धनमर्जयन्वसतीतिवत् , `लक्षणहेत्वोः क्रियायाः` (अष्टाध्यायी ३.२.१२६ ) इति हेत्वर्थे शतृप्रत्ययः । कोरकाणि कुमलानि । `कलिका कोरकः पुमान्` इत्यमरकोशेपुंस्त्वाभिधानं प्रायिकाभिप्रायम् । `कोरकं कुड्मलेऽपि स्यात्कक्कोलकमृणालयोः` इति विश्वप्रकाशादौ नपुंसकत्वस्याभिधानात् । विचकार । विकाशयामासेत्यर्थः । विपूर्वात्किरतेः करोतेर्वा लिट् । अत्र कोरकविकाशकरणस्य समुपहरन्निति हेत्वर्थेन वधूसंप्रदानकपरागोपहरणार्थत्वावगमात्फलोत्प्रेक्षा व्यञ्जकाप्रयोगाद्गम्या
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.