श्रुतिपथमधुराणि सारसाना-
मनुनदि सुश्रुविरे रुतानि ताभिः ।
विदधति जनतामनःशरव्य-
व्यधपटुमन्मथचापनादशङ्काम् ॥
श्रुतिपथमधुराणि सारसाना-
मनुनदि सुश्रुविरे रुतानि ताभिः ।
विदधति जनतामनःशरव्य-
व्यधपटुमन्मथचापनादशङ्काम् ॥
मनुनदि सुश्रुविरे रुतानि ताभिः ।
विदधति जनतामनःशरव्य-
व्यधपटुमन्मथचापनादशङ्काम् ॥
मल्लिनाथः
श्रुतिपथेति ॥ अनुनदि नदीनां समीपे । समीपार्थेऽव्ययीभावः । `अव्ययीभावश्च` (अष्टाध्यायी २.४.१८ ) इति नपुंसकत्वे ह्रस्वत्वम् । ताभिः स्त्रीभिः जनानां समूहो जनता । `ग्रामजन-` (अष्टाध्यायी ४.२.४३ ) इत्यादिना सामूहिकस्तल्प्रत्ययः । तस्या मनांस्येव शरव्यं लक्ष्यम् । `लक्ष्यं शरव्यं च` इत्यमरः । तस्य व्यधो वेधः । `व्यधजपोरनुपसर्गे` (अष्टाध्यायी ३.३.६१ ) इत्यप्प्रत्ययः । तत्र पटुः समर्थो यो मन्मथचापनादः स इति शङ्का भ्रमं विदधति विदधानानि । `वा नपुंसकस्य` (अष्टाध्यायी ७.१.७९ ) इति वैकल्पिको नुम्प्रतिषेधः । श्रुतिपथमधुराणि । श्राव्याणीत्यर्थः । सारसानां रुतानि शुश्रुविरे श्रुतानि । सारसरुतश्रवणान्मन्मथोद्दीपनमासीदित्यर्थः । अत्र सारसरुते मन्मथचापनादभ्रमाद्रान्तिमदलंकारः । `कविसंमतसादृश्याद्विधेये पिहितात्मनि । आरोप्यमाणानुभवो यत्र स भ्रान्तिमान् मतः ॥` इति लक्षणात्
छन्दः
पुष्पिताग्रा []
छन्दोविश्लेषणम्
| १ | २ | ३ | ४ | ५ | ६ | ७ | ८ | ९ | १० | ११ | १२ | १३ |
|---|---|---|---|---|---|---|---|---|---|---|---|---|
| श्रु | ति | प | थ | म | धु | रा | णि | सा | र | सा | ना | |
| म | नु | न | दि | सु | श्रु | वि | रे | रु | ता | नि | ता | भिः |
| वि | द | ध | ति | ज | न | ता | म | नः | श | र | व्य | |
| व्य | ध | प | टु | म | न्म | थ | चा | प | ना | द | श | ङ्काम् |
Other texts to read
About
Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.