मदनरसमहौघपूर्णनाभी-
ह्रदपरिवाहितरोमराजयस्ताः ।
सरित इव सविभ्रमप्रयात-
प्रणदितहंसकभूषणा विरेजुः ॥

मल्लिनाथः मदनेति ॥ मदनस्य रसः शृङ्गारः, अन्यत्र रसो जलं तस्य महौघेन महापू रेण पूर्णा नाभ्य एव हृदास्तेषां परिवाहाः कृताः परिवाहिता जलोच्छासीकृता रोमराजयो यासां ताः । `जलोच्छ्वासाः परीवाहाः` इत्यमरः । सरिज्जलानि हृदानापूर्य परित उच्छ्वसन्तीति प्रसिद्धिः । सविभ्रमैः सविलासैः प्रयातैः प्रकृष्टगमनैः प्रणदिताः शिञ्जिता ये हंसकाः पादकटकाः । `हंसकः पादकटकः` इत्यमरः । अन्यत्र हंसा एव हंसकाः मरालास्त एव भूषणानि यासां ताः स्त्रियः सरित इव विरेजुः । मदनरसपूर्णेत्यनेन नाभीनां तदुद्बोधकत्वं व्यज्यते । `परिवाहितरोमराजय` इति रोमराजीनां परिवाहत्वनिरूपणान्नाभ्य एव हृदा इति रूपकाश्रयणम् । ताः सरित एवेति श्लिष्टविशेषणेयमुपमा । श्लेष एवेत्यन्ये
छन्दः पुष्पिताग्रा []
छन्दोविश्लेषणम्
१० ११ १२ १३
हौ पू र्ण ना भी
ह्र रि वा हि रो रा स्ताः
रि वि भ्र प्र या
प्र दि हं भू णा वि रे जुः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.