अनुवनमसितभ्रुवः सखीभिः सह पदवीमपरः पुरोगतायाः । उरसि सरसरागपदलेखाप्रतिमतयानुययावसंशयानः ॥

मल्लिनाथः अनुवनमिति ॥ अपरः कामी अनुवनं वनं प्रति सखीभिः सह पुरोगतायाः असितभ्रुवः स्वकान्तायाः पदवीमुरसि वक्षसि सरस आर्द्रो रागो लाक्षारञ्जनं यस्य तस्य पादस्य या लेखा विन्यासः सा प्रतिमोपमानं यस्याः सा तत्प्रतिमा तस्य भावस्तत्ता तया । तत्सदृशतयेत्यर्थः । असंशयानोऽसंदिहानः । शीङो लटः कर्तरि शानजादेशः । अनुययौ । अत्र पादरेखाप्रतिमतयेति सादृश्यवस्तुना सुरतकालीनं पादताडनं वस्तु सरागपदार्थमहिम्ना प्रतीयत इति पदगतः स्वतःसिद्धार्थशक्तिमूलो वस्तुध्वनिः संलक्ष्यक्रमध्वनेर्भेदः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.