अनुगिरमृतुभिर्वितायमानामथ स विलोकयितुं वनान्तलक्ष्मीम् । निरगमदभिराद्धुमदृतानां भवति महत्सु न निष्फलः प्रयासः ॥

मल्लिनाथः अनुगिरमिति ॥ अथर्तुप्रादुर्भावानन्तरं स हरिः गिरावित्यनुगिरम् । विभक्त्यर्थेऽव्ययीभावः । `गिरेश्च सेनकस्य` (अष्टाध्यायी ५.४.११२ ) इति समासान्तः । ऋतुभिर्वितायमानां वितन्यमानाम् । तनोतेः कर्मणि लटः शानजादेशः । `तनोतेर्यकि` (अष्टाध्यायी ६.४.४४ ) इति वैभाषिक आकारादेशः वनान्तलक्ष्मीं विलोकयितुं निरगमन्निर्गतः । `पुषादि-` (अष्टाध्यायी ३.१.५५ ) इत्यादिना गमेर्लुङि च्लेरङादेशः । ऋतुगणभक्तिंं स्वीकर्तुमिति भावः । तथा हि—अभिराद्धुमाराधयितुमादृतानामादरं कुर्वताम् । आस्थावतामित्यर्थः । कर्तरि क्तः । प्रयासः सेवायासो महत्सु विषये निष्फलो न भवति । न हि भक्तानुकम्पिनो महान्तस्तत्सेवां व्यर्थयन्तीति भावः । अतो हरेरप्यृतुगणानुग्रहणार्थे निर्गमो युक्त इति सामान्येन विशेषसमर्थनरूपोऽर्थान्तरन्यासः। `सामान्यविशेषकार्यकारणभावाभ्यां निर्दिष्टप्रकृतार्थसमर्थनादर्थान्तरन्यासः` इति सर्वस्वसूत्रम् । अत्र सर्गे पुष्पिताग्रा वृत्तम् । `अयुजि नयुगरेफतो यकारो युजि च नजौ जरगाश्च पुष्पिताग्रा` इति लक्षणात्
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.