मुहुरसुसममाध्नती नितान्तं
प्रणदितकाञ्चि नितम्बमण्डलेन ।
विषमितपृथुहारयष्टि तिर्य-
क्कुचमितरं तदुरस्थले निपीड्य ॥

मल्लिनाथः मुहुरिति ॥ पुनः किं कृत्वा । नितम्बमण्डलेन करणेन नितान्तमतिशयेन प्रणदिता प्रकर्षेण नदन्ती काञ्ची यस्मिन्कर्मणि तद्यथा तथा । `उपसर्गादसमासेऽपि णोपदेशस्य` (८४१४) इति णत्वम् । मुहुरसुसमं प्राणेशमाघ्नती ताडयन्ती। हन्तेराङ्पूर्वाल्लटः शत्रादेशे ङीप् । सकर्मकत्वान्न `आङो यमहनः` (१॥३॥२८) इत्यात्मनेपदम् । विषमिता विषमीकृता पृथुहारयष्टिर्यस्मिन्कर्मणि तद्यथा तथा इतरं पूर्वश्लोकोक्तबहिःस्तनादन्यम् । दक्षिणमित्यर्थः । कुचं तस्य भर्तुरुरःस्थले तिर्यङ् निपीड्य । पूर्ववत्संबन्धः
छन्दः पुष्पिताग्रा []
छन्दोविश्लेषणम्
१० ११ १२ १३
मु हु सु मा ध्न ती नि ता न्तं
प्र दि का ञ्चि नि म्ब ण्ड ले
वि मि पृ थु हा ष्टि ति र्य
क्कु मि रं दु स्थ ले नि पी ड्य
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.