गुरुतरकलनूपुरानुनादं सललितनर्तितवामपादपद्मा । इतरदतिलोलमादधाना पदमथ मन्मथमन्थरं जगाम ॥

मल्लिनाथः (विशेषकम् ।) गुरुतरेति ॥ पुनर्गुरुतरः सान्द्रतरः कलो मधुरश्च नूपुरस्यानुनादो ध्वनिर्यस्मिन्कर्मणि तद्यथा तथा सललितं सलीलं नर्तितं व्यापारितं वामं सव्यं पादपद्मं यया सा इतरद्दक्षिणं पदमनतिलोलं भर्तृचरणस्खलनादनतिचपलं यथा तथा आदधाना निक्षिपन्ती सती मन्मथेन मन्थरमलसं जगाम । एषा च पार्श्वगामिनी
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.