अविरलपुलकः सह व्रजन्त्याः
प्रतिपदमेकतरः स्तनस्तरुण्याः ।
घटितविघटितः प्रियस्य वक्ष-
स्तटभुवि कन्दुकविभ्रमं बभार ॥

मल्लिनाथः अविरलेति ॥ सह व्रजन्त्याः । पार्श्वमाश्लिष्य गच्छन्त्या इत्यर्थः । तरुण्याः संबन्धी अविरलपुलकः प्रियाङ्गसंगमात् सान्द्ररोमाञ्चः एकतरोऽन्यतरो द्वयोरन्यः । संनिकृष्ट इति भावः । `एकाच्च प्राचाम्` (अष्टाध्यायी ५.३.९४ ) इति द्वयोरेकस्य निर्धारणे डतरच्प्रत्ययः । स्तनः प्रियस्य वक्षस्तटमिव तस्य भूः प्रदेशस्तस्यां वक्षस्तटभुवि प्रतिपदं घटितविघटितः संयुक्तवियुक्तः । पतितोत्पतितः सन्निति यावत् । विशेषणयोरपि मिथो गुणप्रधानभावविवक्षया `विशेषणं विशेष्येण बहुलम्` (अष्टाध्यायी २.१.५७ ) इति समासः । कन्दुकविभ्रमं गेन्दुकशोभाम् । `गेन्दुकः कन्दुकः` इत्यमरः । बभार । अन्यविभ्रमस्यान्यसंबन्धायोगात्सादृश्याक्षेपे निदर्शना । एषा च प्रियपार्श्वगामिनी । इतःप्रभृति `मदनरस-` (७।२३) इत्यतः प्राग्वक्ष्यमाणाः षण्नायिकाः स्वाधीनपतिका हृष्टाः प्रगल्भाश्चेत्यनुसंधेयम्
छन्दः पुष्पिताग्रा []
छन्दोविश्लेषणम्
१० ११ १२ १३
वि पु कः व्र न्त्याः
प्र ति मे रः स्त स्त रु ण्याः
टि वि टि तः प्रि स्य क्ष
स्त भु वि न्दु वि भ्र मं भा
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.