यदि मयि लघिमानमागतायां
तव धृतिरस्ति गतास्मि सम्प्रतीयम् ।
द्रुततरपदपातमापपात
प्रियमिति कोपपदेन कापि संख्या ॥

मल्लिनाथः यदीति ॥ हे सखि, मयि लघिमानमागतायां स्वयं गमनेन लाघवं प्राप्तायां तव तिरस्ति यदि संतोषो भवति चेत् । `धृतिः संतोषधैर्ययोः` इत्यमरः । इयमेतदवस्थैव संप्रत्यस्मिन्क्षण एवं गतास्मि इति । वदन्तीति शेषः । इतिना गम्यमानार्थत्वादप्रयोगः । अन्यथा पौनरुक्त्यादित्यालंकारिकाः । सख्या सह कोपपदेन कोपव्याजेन । वस्तुतस्तु रागादेवेति भावः । `व्याजोपदेशो लक्ष्यं च`, "निमित्तं व्यञ्जनं पदम्` इति चामरः । काचिन्नायिका द्रुततराः शीघ्रतराः पदपाताः पादन्यासा यस्मिन्कर्मणि तद्यथा तथा प्रियं वल्लभमापपातानुधावति स्म । एषा च स्वयंप्रवृत्ता स्वलाघवशङ्कितया पूर्वं निर्वासितप्रिया, अथेदानीं स्वयंप्रवृत्तेः पश्चात्तप्ता चेति गम्यते । अतः कलहान्तरिता । `कोपात्कान्तं पराणुद्य पश्चात्तापसमन्विता` इति लक्षणात्
छन्दः पुष्पिताग्रा []
छन्दोविश्लेषणम्
१० ११ १२ १३
दि यि घि मा मा ता यां
धृ ति स्ति ता स्मि म्प्र ती यम्
द्रु पा मा पा
प्रि मि ति को दे का पि सं ख्या
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.