इति वदति सखीजनेऽनुरागा-
द्दयिततमामपरश्चिरं प्रतीक्ष्य ।
तदनुगमवशादनायतानि
न्यधित मिमान इवावनिं पदानि ॥

मल्लिनाथः इतीति ॥ सखीजने इति वदति सति अपरः कश्चिद्दयिततमामनुरागात् स्नेहाच्चिरं प्रतीक्ष्य तदनुगमवशात्तस्याः प्रियायाः काः अनुगमः पश्चाद्गमनं तस्य वशादनुसारादवनिं मिमानो मानं कुर्वाण इवेत्युत्प्रेक्षा । माङो लटः कर्तरि शानजादेशः । `श्लौ` (अष्टाध्यायी ६.१.१० ) इति द्विर्भावः । अनायतान्यनन्तरालानि पदानि न्यधित निहितवान् । धाञो लुङि तङ् `स्थाध्वोरिच्च` (१|२।१७) इतीकारः । सिचः कित्त्वान्न गुणः `हृस्वादङ्गात्` ( पा.८।२।२७) इति सकारलोपः । एषा च नायिका स्वाधीनपतिका । `स्वाधीनपतिका सा तु या न मुञ्चति वल्लभम्` इति लक्षणात् । हृष्टा चेयम्
छन्दः पुष्पिताग्रा []
छन्दोविश्लेषणम्
१० ११ १२ १३
ति ति खी ने ऽनु रा गा
द्द यि मा श्चि रं प्र ती क्ष्य
नु शा ना ता नि
न्य धि मि मा वा निं दा नि
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.