Loading data... On slow networks this could take a few minutes.
100%

द्रुतपदमिति मा वयस्य यासि-
र्ननु सुतनुं परिपालयानुयान्तीम् ।
नहि न विदितखेदमेदतीय-
स्तनजघनोद्वहने तवापि चेतः ॥

मल्लिनाथः द्रुतेति ॥ हे वयस्य सखे, इतीत्थं द्रुतपदं शीघ्रपदक्रम यथा तथा मा यासीः मा गमः । यातेर्लुङि `न माङयोगे` (६|४|७४) इत्यदप्रतिषेधः । अनुयान्तीमनुगच्छतीं सुतनुं शुभाङ्गीं प्रियामनुपालय प्रतीक्षस्व । असावपि शीघ्रमायातु तत्राह-नहीति । तव चेतोऽपि एतदीयस्तनजघनोद्वहने विदितखेदमनुभूतखेदं नेति ।&#३२; न । किंतु वेत्येवेत्यर्थः । अतः कथं शीघ्रमायास्यतीति भावः। `संभाव्यनिषेधनिवर्तने द्वौ प्रतिषेधौ` इति वामनः
छन्दः पुष्पिताग्रा []
छन्दोविश्लेषणम्
१० ११ १२ १३
द्रु मि ति मा स्य या सि
र्न नु सु नुं रि पा या नु या न्तीम्
हि वि दि खे मे ती
स्त नो द्व ने वा पि चे तः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.