मल्लिनाथः
प्रियमिति ॥ इतीत्थं नितान्तमागसोऽन्यासङ्गापराधस्य स्मरणेन सरोषे अत एव कषाये लोहिते कृते कषायिते आयते चाक्षिणी यस्याः सा तथोक्ता । `निर्यासे च कषायोऽथ सौरभे लोहितेऽन्यवत्` इति विश्वः । वनिता नायिका चरणगतायाः पूर्वोक्तवाक्यान्ते प्रणतायाः सख्या वचसोऽनुरोधादनुल्लङ्घनात्किल । किलेत्यपरमार्थे । वस्तुतस्वनुरागादेवेति भावः । प्रियं कथमपि कथं चिदनुकूलयांचकाराभिमुखीचकार । अनुजग्राहेत्यर्थः । एषा खण्डिता नायिका । `ज्ञातेऽन्यासङ्गविकृते खण्डितेाकपायिता` इति दशरूपकलक्षणात् (२।२५)। अत एव कविना आगःस्मरणसरोषकषायिताक्षीत्युक्तम् । एषा चासंभाषणचिन्ताखेदाश्रुनिःश्वासाद्यनुभाववती
Other texts to read
About
Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.