गतधृतिरवलम्बितुं बतासू-
ननलमनालपनादहं भवत्याः ।
प्रणयति यदि न प्रसादबुद्धि-
र्भव मम मानिनि जीविते दयालुः ॥

मल्लिनाथः गतेति ॥ गततिरधीराऽहं भवत्यास्तवानालपनादसंभाषणात् । आलपनं विहायेत्यर्थः । ल्यब्लोपे पञ्चमी । असून् प्राणानवलम्बितुं धारयितुमनलमशक्ता । `अलं भूषणपर्याप्तिशक्तिवारणवाचकम्` इत्यमरः । बतेति खेदे । अत एव हे मानिनि, प्रणयिनि प्रिये, प्रसादबुद्धिरनुग्रहबुद्धिर्न यदि नास्ति चेत्तथापि मम जीविते दयालुर्भव । `स्पृहिगृहि-` (अष्टाध्यायी ३.२.१५८ ) इत्यादिना आलुच्प्रत्ययः । स धूर्तोऽपि मत्प्राणत्राणार्थमनुग्राह्य इति भावः
छन्दः पुष्पिताग्रा []
छन्दोविश्लेषणम्
१० ११ १२ १३
धृ ति म्बि तुं ता सू
ना ना हं त्याः
प्र ति दि प्र सा बु द्धि
र्भ मा नि नि जी वि ते या लुः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.