कुटजानि वीक्ष्य शिखिभिः शिखरीन्द्रं
समयावनौ घनमदभ्रमराणि ।
गगनं च गीतनिनदस्य गिरोच्चैः
समया वनौघनमदभ्रमराणि ॥

मल्लिनाथः कुटजानीति ॥ शिखरीन्द्रं समया रैवतकाग्रे: समीपे । `अभितःपरितःसमया-` (वा०) इत्यादिना द्वितीया । अवनौ प्रदेशे घनमदा भ्रमरा येषु तानि घनमदभ्रमराणि कुटजानि कुटजकुसुमानि वनौघेन पयःपूरेण नमन्त्यभ्राणि मेघा यस्मिंस्तद्वनौघनमदभ्रम् । `पयः कीलालममृतं जीवनं भुवनं वनम्` इत्यमरः । गगनं च वीक्ष्य शिखिभिर्मयूरैर्गीतनिनदस्य गानध्वनेः समया तुल्यया । `तुल्यार्थैः-` (अष्टाध्यायी २.३.७२ ) इत्यादिना वैकल्पिकी षष्ठी । गिरा वाचा । केकयेत्यर्थः । उच्चैरराणि रणितम् । `रण शब्दे` भावे लुङ् । चिणो लुक् । कुटजा वृत्तम् । `सजसा भवेदिह सगौ कुटजाख्यम्` इति लक्षणात्
छन्दः कलहंसम् [१३: सजससग]
छन्दोविश्लेषणम्
१० ११ १२ १३
कु जा नि वी क्ष्य शि खि भिः शि री न्द्रं
या नौ भ्र रा णि
नं गी नि स्य गि रो च्चैः
या नौ भ्र रा णि
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.