अभीष्ठमासाद्य चिराय काले
समुद्धृताशां कमनी चकाशे ।
योषिन्मनोजन्मसुखोदयेषु
समुद्धृताशङ्गमनीचकाशे ॥

मल्लिनाथः अभीष्टमित्यादि ॥ कामयत इति कमनी कामयित्री । `कम्रः कामयिताभीकः कमनः कामनोऽभिकः` इत्यमरः । कमेः कर्तरि ल्युटि ङीप् । योषित् । जातावेकवचनम् । अनीचा उन्नताः काशा अश्ववाला यस्मिन्ननीचकाशे काले । शरदीत्यर्थः । मनोजन्मसुखोदयेषु कामसुखाविर्भावेषु धृता आशा अभिलाषो येन तमभीष्टं प्रियं चिराय चिरकालेन । `चिराय चिररात्राय` इत्यमरः । सम्यगुद्धृता उत्सृष्टा आशङ्का संकोचो यस्मिन्कर्मणि तत्समुद्धताशकं विस्रब्धं यथा तथा आसाद्य प्राप्य मुदा सह वर्तत इति समुत् सानन्दा सती चकाशे । विललासेत्यर्थः । अत्र समुच्चकाश इति योषितः प्रियप्राप्तिनिमित्तहर्षाख्यभावनिबन्धनात् प्रेयोऽलंकारः ॥&#३२; रसभावतदाभासत्प्रकाशसमानानां निबन्धे रसवत्प्रेय ऊर्जस्विसमाहितानीति लक्षणात् । वृत्तमुपजातिः ।
छन्दः उपजातिः [११]
छन्दोविश्लेषणम्
१० ११
भी ष्ठ मा सा द्य चि रा का ले
मु द्धृ ता शां नी का शे
यो षि न्म नो न्म सु खो ये षु
मु द्धृ ता ङ्ग नी का शे
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.