मल्लिनाथः
मुदमित्यादि ॥ अब्दभुवां मेघप्रभवानामपां लाभे । मेघे वर्षति सतीत्यर्थः । सहसा मयूरा मुदमानन्दमायन्तालभन्त । `अय गतौ` लङि `आडजादीनाम्` (अष्टाध्यायी ६.४.७२ ) इत्याडागमे वृद्धिः । नदी पपाट । नद्यः प्रावहन्नित्यर्थः । `अट पट गतौ` लिट् । जातावेकवचनम् । अलिना भृङ्गेण सह सायंतनः सायंभवः । "सायंचिरम्-`(अष्टाध्यायी ४.३.२३ ) इत्यादिना ट्युप्रत्ययः तुडागमश्च । स चासौ दीपश्च तद्वत्पाटलाभे पाटलप्रभे इत्युपमालंकारः । तस्मिन् शिलीन्ध्रे कन्दलीकुसुमे अलिन्यरमत । अत्र मयूरमोदप्राप्त्याद्यनेककर्तृकक्रियायोगपद्याद्भिन्नाधिकरणक्रियासमुच्चयरूपः समुच्चयालंकारभेदः । `गुणक्रियायौगपद्यं समुच्चयः` इति सामान्यलक्षणम् । औपच्छन्दसिकं वृत्तम्
Other texts to read
About
Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.