Loading data... On slow networks this could take a few minutes.
100%

जगद्वशीकर्तुमिमाः स्मरस्य
प्रभावनीके तनवै जयन्तीः ।
इत्यस्य तेने कदलीर्मधुश्रीः
प्रभावनी केतनवैजयन्तीः ॥

मल्लिनाथः जगदिति ॥ प्रभावयतीति प्रभावनी संपादयित्री । कर्तरि ल्युटि ङीप् । मधुश्रीः कर्त्री जगद्वशीकर्तुं प्रभौ समर्थे अस्य स्मरस्यानीके सैन्ये जयन्तीर्जित्वरीः केतनवैजयन्तीर्ध्वजपताकाः तनवै करवाणि । तनोतेः प्राप्तकाले लोट् । टेरेत्वमित्येकारः `एत ऐ` (अष्टाध्यायी ३.४.९३ ) `आडुत्तमस्य पिच्च` (अष्टाध्यायी ३.४.९२ ) इति आटि `आटश्च` (६|१|९०) इति वृद्धिः । इति मनीषयेति शेषः । इमाः कदली रम्भातरूंस्तेने वितस्तार । `कदली वारणबुशा रम्भा मोचांशुमत्फला` इत्यमरः । कदलीषु कामवैजयन्तीत्वोत्प्रेक्षा । वृत्तमुपजातिः
छन्दः उपजातिः [११]
छन्दोविश्लेषणम्
१० ११
द्व शी र्तु मि माः स्म स्य
प्र भा नी के वै न्तीः
त्य स्य ते ने ली र्म धु श्रीः
प्र भा नी के वै न्तीः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.