नोज्झितुं युवतिमान-
सनिरासे दक्षमिष्टमधुवासरसां ।
चूतमालिरलिनामति-
रागादक्षमिष्ट मधुवासरसारम् ॥

मल्लिनाथः नोज्झितुमिति ॥ अरमत्यन्तमिष्टेष्वीप्सितेषु मधुषु मकरन्देषु वासे वसतौ रसो रागो यस्याः सा इष्टमधुवासरसा। मधुपानप्रियेत्यर्थः । अत एवालिनामालिर्भृङ्गश्रेणिर्युवतिमाननिरासे दक्षं कुशलम् । उद्दीपकत्वादिति भावः । मधुवास रेषु वसन्तदिनेषु सारं श्रेष्ठं मधुवासरसारम् । तत्कालश्लघ्यमित्यर्थः । चूतं सहकारमतिरागादतिलौल्यादुज्झितुं हातुं नाक्षमिष्ट नासहिष्ट । क्षमेर्भौवादिकाल्लुङ् । स्वागता वृत्तम् । `स्वागतेति रनभाद्गुरुयुग्मम्` इति लक्षणात्
छन्दः आर्यागीतिः []
छन्दोविश्लेषणम्
१० ११ १२ १३ १४
नो ज्झि तुं यु ति मा
नि रा से क्ष मि ष्ट धु वा सां
चू मा लि लि ना ति
रा गा क्ष मि ष्ट धु वा सा रम्
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.