स्मररागमयी वपुस्तमिस्रा परिसस्तार रवेरसत्यवशम् । प्रियमाप दिवापि कोकिले स्त्री परितस्ताररवे रसत्वश्यम् ॥
स्मररागमयी वपुस्तमिस्रा परिसस्तार रवेरसत्यवशम् । प्रियमाप दिवापि कोकिले स्त्री परितस्ताररवे रसत्वश्यम् ॥
मल्लिनाथः
स्मरेति ॥ असती दुष्टा स्मरेण कामेन निमित्तेन यो रागो रमणेच्छा स एव तन्मयी तमिस्रा तमस्तोमः। `तमिस्रा तिमिरे रोगे तमिस्रा तु तमस्ततौ । कृष्णपक्षनिशायां च` इति विश्वः । रवेर्वपुर्मण्डलं परितस्तार आवव्रे । अहनि रजनीधियं जनयामासेत्यर्थः । परिपूर्वात्स्तृणातेर्लिट् । अवश्यम् । सत्यमित्यर्थः । कुतः । परितः समन्तात् ताररवे उच्चतरध्वनौ कोकिले रसति कूजति सति इत्युद्दीपकोक्तिः । स्त्री। स्त्रिय इत्यर्थः । जातावेकवचनम्। दिवेति सप्तम्यर्थेऽव्ययम् । वशं गतो वश्यः । `वशं गतः` (१४८६) इति यत्प्रत्ययः । न वश्यस्तमवश्यम् । अवशं गतमपीत्यर्थः । प्रियमाप । स्वयमभिससारेत्यर्थः । यदवगणयन्तमपि प्रियं दिवापि मानमवगणय्य निषेधं चोल्लङ्घ्य समगच्छंस्तत्सत्यम् । रागतिमिरतिरोहितमानभानुमण्डला मानिन्य इति रूपकानुप्राणिता प्रियाप्तिक्रियानिमित्ता परिस्तरणक्रियास्वरूपोत्प्रेक्षा अवश्यमिति व्यञ्जकप्रयोगाद्वाच्या । औपच्छन्दसिकं वृत्तम् । `विषमे ससजा गुरू समे चेत् स्मर तच्छन्दसिकं तदोपपूर्वम्` इति लक्षणात्
Other texts to read
About
Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.