अतिसुरभिभाजि पुष्पश्रिया-
मतुनुतरतयेष सन्तानकः ।
तरुणपरभृतः स्वनं रागिणा-
मतनुत रतये वसन्तानकः ॥

मल्लिनाथः अतिसुरभिरिति ॥ अतिसुरभिरत्यन्तसुगन्धिः संतानकः कल्पवृक्षः पुष्पश्रियां पुष्पसंपदामतनुतरतया महत्तरत्वेन । अतनुशब्दात्तरबन्तात्तलप्रत्ययः । अभाजीवाभञ्जीवेत्युप्रेक्षा । तथा नम्र इत्यर्थः । `भञ्जेश्च चिणि` (अष्टाध्यायी ६.४.३३ ) इति विभाषा नलोपे उपधावृद्धिः । चिणो लुक् । किंच वसन्तस्यानको वसन्तानकः । दुन्दुभिरिति रूपकम् । तरुणपरभृतस्तरुणकोकिलो रागिणां कामिनां रतये रागवर्धनाय स्वनमतनुत । मधुरं चुकूजेत्यर्थः । प्रभावृत्तम् । `स्वरशरविरतिननौ रौ प्रभा` इति लक्षणात्
छन्दः प्रमुदितवदना [१२: ननरर]
छन्दोविश्लेषणम्
१० ११ १२
ति सु भि भा जि पु ष्प श्रि या
तु नु ये न्ता कः
रु भृ तः स्व नं रा गि णा
नु ये न्ता कः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.