Loading data... On slow networks this could take a few minutes.
100%

हिमऋतावपि ताः स्म भृशस्विदो
युवतयः सुतरामुपकारिणौ ।
प्रकटयत्यनुरागमकृत्रिमं
स्मरमयं रमयन्ति विलासिनः ॥

मल्लिनाथः हिमेति ॥ स्मरमयं स्मरादागतम् । स्मरप्रयुक्तमित्यर्थः । `तत आगतः` (अष्टाध्यायी ४.३.७४ ) इति मयट् । अकृत्रिममनुरागं सहजं प्रेम प्रकटयति प्रकटीकुर्वाणे । तत्कार्येण स्वेदेनेति भावः । अत एव सुतरामुपकारिणि पुंसां रिरंसाजननात्तेभ्यः स्वानुरागप्रकाशनाच्चात्यन्तोपकर्तरीत्यर्थः । एवंभूते हिमऋतौ हेमन्तेऽपि । स्वेदसंभावनारहितकालेऽपीत्यर्थः । सांहितः `ऋत्यकः` (अष्टाध्यायी ६.१.१२८ ) इति प्रकृतिभावः । भृशं स्विद्यन्ति रागोष्मणा भृशस्विद इति सात्त्विकोक्तिः । क्किप् । हेमन्तोऽपि रागिणां स्वेदहेतुरेव । तद्धेतुरागहेतुत्वादिति भावः । तास्तथा धीरा युवतयो विलासिनः प्रियान् रमयन्ति स्म। हेमन्तस्योद्दीपकत्वादिति पीडाक्षमत्वात्&#३२; दीर्घरात्रित्वाच्चोभयेच्छासदृशमरमन्तेत्यर्थः ॥ इति हेमन्तवर्णनम्
छन्दः द्रुतविलम्बितम् [१२: नभभर]
छन्दोविश्लेषणम्
१० ११ १२
हि ता पि ताः स्म भृ स्वि दो
यु यः सु रा मु का रि णौ
प्र त्य नु रा कृ त्रि मं
स्म यं न्ति वि ला सि नः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.