Loading data... On slow networks this could take a few minutes.
100%

कुसुमयन्फलिनीरवैमर्द-
विकासिभिरहितहुंकृतिः ।
उपवनं निरभर्सयत प्रिया-
न्वियुवतीर्युवतीः शिशिरानिलः ॥

मल्लिनाथः कुसुमयन्नित्यादिना ॥ उपवनम् । वन इत्यर्थः । विभक्त्यर्थेऽव्ययीभावः । `तृतीयासप्तम्योर्बहुलम्` (अष्टाध्यायी २.४.८४ ) इति विकल्पादम्भावः । फलिनीः प्रियङ्गुलताः । `प्रियङ्गुः फलिनी फली` इत्यमरः । कुसुमयन् कुसुमवतीः कुर्वन् इत्युद्दीपनसामग्रीवर्णनम् । कुसुमयतेर्मत्वन्तप्रकृतिकात् `तत्करोति-` (ग०) इति ण्यन्ताल्लटः शत्रादेशः । णाविष्टवद्भावे विन्मतोर्लुक् । मदविकासिभिर्मदेन विजृम्भमाणैरलिनीरवैः भृङ्गीहुंकारैराहितहुंकृतिः कृतहुंकारः । माधुर्याद्युद्दीपकत्वातिशयद्योतनार्थमलिनीति स्त्रीलिङ्गनिर्देशः । शिशिरानिलः प्रियान्वियुवतीः कोपाद्वियुञ्जानाः । यौतेः शतरि धातोरुवङादेशः, `उगितश्च` (अष्टाध्यायी ४.१.६ ) इति ङीप् । युवतीर्वधूः। `यूनस्तिः` (४।१७७) इति तिप्रत्ययः । निरभर्त्सतातर्जयत । तर्जिभर्त्स्योश्चौरादिकयोरनुदात्तेत्वादात्मनेपदम् । अत्र वायौ अचेतने चेतनधर्मो निर्भर्त्सनमुत्प्रेक्ष्यते । सा चालिनीहुंकारझङ्काराज्जीवितेति रूपकसंकीर्णा व्यञ्जकाप्रयोगाद्गम्या च
छन्दः द्रुतविलम्बितम् [१२: नभभर]
छन्दोविश्लेषणम्
१० ११ १२
कु सु न्फ लि नी वै र्द
वि का सि भि हि हुं कृ तिः
नं नि र्स प्रि या
न्वि यु ती र्यु तीः शि शि रा नि लः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.