Loading data... On slow networks this could take a few minutes.
100%

भृशमदूयत याधरपल्लव-
क्षतिरनावरणा हिममारुतैः ।
दशनरश्मिपटेन च सीत्कृतै-
र्निवासितेव सितेन सुनिर्ववौ ॥

मल्लिनाथः भृशमिति ॥ अनावरणा आवरणरहिता या अधरपल्लवस्य क्षतिर्व्रणो हिममारुतैर्भृशमदूयतातप्यत । दूञो देवादिकात्कर्तरि लङ् । सा क्षतिः । यत्तदोर्नित्यसंबन्धात् । सीत्कृतैः सीत्कारैः कर्तृभिः सितेन शुभ्रेण दशनरश्मय एव पटस्तेन करणेन निवसितेवाच्छादितेवेत्युत्प्रेक्षा । वसेराच्छादनार्थात्कर्मणि क्तस्येडागमः । सुनिर्ववौ सुष्टु निर्ववार । शीतालुराच्छाद्यत इति भावः । हिमहताधरनिर्वाणस्य सीत्कारकारणकस्य दशनरश्मिपटाच्छादने हेतुत्वोत्प्रेक्षणाद्रूपकोत्प्रेक्षयोः संकरः
छन्दः द्रुतविलम्बितम् [१२: नभभर]
छन्दोविश्लेषणम्
१० ११ १२
भृ दू या ल्ल
क्ष ति ना णा हि मा रु तैः
श्मि टे सी त्कृ तै
र्नि वा सि ते सि ते सु नि र्व वौ
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.