Loading data... On slow networks this could take a few minutes.
100%

प्रियतमेन यया सरुषा स्थितं
न सह सा सहसा परिरभ्य तम् ।
श्लथयितुं क्षणमक्षमतामङ्गना
न सह सा सहसा कृतवेपथुः ॥

मल्लिनाथः प्रियतमेति ॥ अत्राद्यपर्याये न सह सा इति त्रेधा विभागः । अन्यत्र सहसेत्येकं पदम् । सरुषा सरोषया यया स्त्रिया का प्रियतमेन सह न स्थितम् । नपुंसके भावे क्तः । सा अङ्गना स्त्री सहसा मार्गशीर्षमासेन । `मार्गशीर्षे सहा मार्गः` इत्यमरः । कृतवेपथुर्जनितकम्पा सती । `द्वितोऽथुच्` (अष्टाध्यायी ३.३.८९ ) इत्यथुच्प्रत्ययः । तं पूर्वमगणितमेव प्रियं हसेन सह वर्तत इति सहसा सहास्या सती । `अथो हसः । हासो हास्यं च` इत्यमरः । `स्वनहसोर्वा` (अष्टाध्यायी ३.३.६२ ) इति विकल्पादप्प्रत्ययः । सहसा शीघ्रम् । स्वरादिपाठादव्ययत्वम् । परिरभ्याश्लिष्य क्षणम् । क्षणमपीत्यर्थः । अन्यथा वैरस्यात् । अत एव सामर्थ्यलभ्यार्थत्वादपेरप्रयोगः । श्लथयितुं नाक्षमत । शिथिलीकर्तुं नोत्सहते स्मेत्यर्थः । मानिनीमानभञ्जनक्षमोऽयं मास इति भावः । कलहान्तरितेयं नायिका । `कोपात्कान्तं पराणुद्य पश्चात्तापसमन्विता` इति लक्षणात्
छन्दः द्रुतविलम्बितम् [१२: नभभर]
छन्दोविश्लेषणम्
१० ११ १२ १३
प्रि मे या रु षा स्थि तं
सा सा रि भ्य तम्
श्ल यि तुं क्ष क्ष ता ङ्ग ना
सा सा कृ वे थुः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.