Loading data... On slow networks this could take a few minutes.
100%

मुक्तासृणानि परितः कचकं चरन्त-
स्त्रुट्याद्वितानतनिकाव्यतिषङ्गभाजः ।
सस्रुः सरोषपरिचारकवार्यमाणा
दमाञ्चलस्खलितलोलपदं तुरङ्गाः ॥

मल्लिनाथः मुक्ता इति ॥ मुक्ता विहारार्थमुत्सृष्टा अत एव कटकं शिविरं परितः । `अभितःपरितः(वा०) इत्यादिना द्वितीया । तृणानि चरन्तो भक्षयन्तः त्रुट्यन्तीषु छिन्नासु वितानतनिकासु पटमण्डपरज्जुषु व्यतिषङ्गं सङ्गं भजन्तीति तथोक्ताः । अत एव सरोषैः परिचारकैः किंकरैर्वार्यमाणा अपसार्यमाणास्तुरङ्गा दामाञ्चलानि पादपाशाः । `दामाञ्चलं पादपाशः` इति वैजयन्ती । दूष्यवरत्राबन्धनशङ्कव इति केचित् । तेषु स्खलितेन लोलानि पदानि यस्मिन्कर्मणि तद्यथा तथा सस्रुरपसस्नुः
छन्दः वसन्ततिलका [१४: तभजजगग]
छन्दोविश्लेषणम्
१० ११ १२ १३ १४
मु क्ता सृ णा नि रि तः कं न्त
स्त्रु ट्या द्वि ता नि का व्य ति ङ्ग भा जः
स्रुः रो रि चा वा र्य मा णा
मा ञ्च स्ख लि लो दं तु ङ्गाः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.