अव्याकुलं प्रकृतमुत्तरधेयकर्म
धाराः प्रसाधयितुव्यतिकीर्णरूपाः ।
सिद्धं मुखे नवसु वाथिषु कश्चिदश्वं
वल्गाविभागकुशलो गमयांबभूव ॥
अव्याकुलं प्रकृतमुत्तरधेयकर्म
धाराः प्रसाधयितुव्यतिकीर्णरूपाः ।
सिद्धं मुखे नवसु वाथिषु कश्चिदश्वं
वल्गाविभागकुशलो गमयांबभूव ॥
धाराः प्रसाधयितुव्यतिकीर्णरूपाः ।
सिद्धं मुखे नवसु वाथिषु कश्चिदश्वं
वल्गाविभागकुशलो गमयांबभूव ॥
मल्लिनाथः
अव्याकुलमिति ॥ वल्गा मुखरज्जुः सा चोरिक्षप्तादिभेदेन चतुर्दशविधा । तदुक्तं हयलीलावत्याम्-`उत्क्षिप्ता शिथिला तथोत्तरवती मन्दा च वैहायसी विक्षिप्तैककरार्धकंधरसमाकीर्णा विभक्ता तथा । अत्युक्षिप्ततलोद्धृते खलु तथा व्यागूढगोकर्णिके वाहानां कथिताश्चतुर्दशविधा वल्गाप्रभेदा अमी ॥` इति । तल्लक्षणानि तु तत्रैव द्रष्टव्यानि, विस्तरभयान्न लिख्यन्ते । तस्या विभागो विविच्य प्रयोगः तत्र कुशलो वल्गविभागकुशल इति । षड्विधप्रेरणाभिज्ञ इत्यर्थः । वल्गाग्रहणस्य रागाद्युपलक्षणत्वात् । यथाह भोजः-`वाहनं प्रतिवाहानां षड्विधं प्रेरणं विदुः । रागावल्गाकशापार्ष्णिप्रतोदरवभेदतः ॥` इति । कश्चित् कश्चन वाहकः अव्याकुलं २अव्यग्रम् । अत्रस्तमिति यावत् । प्रकर्षेण कृतं प्रकृतम् । सज्जितमित्यर्थः । मुखे मुखकर्मणि सिद्धं सिद्धिमन्तमश्वं चतुष्काख्ये गतिविशेषे मुखे । संस्थानविशेषादिविशेषणविशिष्टमश्वमित्यर्थः । तदुक्तं रेवतोत्तरे-`सृक्काधरोष्ठसितफेनलवाभिरामफूत्कारवायुपदमुन्नतकंधराग्रम् । नीत्वोपकुञ्चितमुखं नवलोहसाम्यमश्वं चतुष्कसमये मुखसिद्धमाहुः ॥` उत्तरधेयकर्म युद्धाद्युत्तरकाले धेयं विधेयं प्रयोज्यं यत्कर्म क्रिया तद्रूपा इत्यर्थः । अव्यतिकीर्णरूपा असंकीर्णरूपा धारा गतिभेदाः । `अश्वानां तु गतिर्धारा विभिन्ना सा च पञ्चधा । आस्कन्दितं धौरितकं रेचितं वल्गितं प्लुतम् ॥` इति वैजयन्ती । `गतयोऽमूः पञ्च धाराः` इत्यमरश्च । अश्वशास्त्रे तु संज्ञान्तरेणोक्ताः । `गतिः पुला चतुष्का च तद्वन्मध्यजवा परा । पूर्णवेगा तथा चान्या पञ्च धाराः प्रकीर्तिताः ॥ एकैका त्रिविधा धारा हयशिक्षाविधौ मता । लघ्वी मध्या तथा दीर्घा ज्ञात्वैता योजयेत् क्रमात् ॥` इति । तथा च पञ्चदश विभेदा भवन्ति । ताः पञ्च धाराः प्रसाधयितुं परिचेतुं नवसु वीथिषु संचारस्थानेषु गमयांबभूव । वीथयो नवाश्वानां सर्वत्र धारादार्ढ्यार्थाः परिमिताः प्रचारदेशाः । ताश्च तिस्र इत्येके नवेत्यन्ये । तत्रोत्तरपक्षमाश्रित्योक्तं कविना नवस्विति । यथाह भोजः-`वीथ्यस्तिस्रोऽथ धाराणां लध्वीमध्योत्तमाः क्रमात् । तासां स्याद्धनुषां मानमशीतिर्नवतिः शतम् ॥ श्रेष्ठमध्योत्तमानां तु वाजिनां वीथिकाः स्मृताः । नवानां कथिता वीथ्यो दुष्टानां क्रमणक्रमे । अन्येचामपि सर्वत्र गतिदार्ढ्यार्थमीरिताः ॥ समोन्नता सा विषमाम्बुकीर्णा शुद्धा नताग्रा तृणवीरुदाढ्या । स्थाणुप्रकीर्णोपलसंप्रकीर्णा पार्श्वोन्नताख्या नवधेति वीथ्यः ॥ सर्ववीथीषु यो वाजी दृढशिक्षासमन्वितः । तेन राजा रणे नित्यं मृगयायां मुदं व्रजेत् ॥` इति । अन्ये तु उरसाल्यादयो गतिविशेषा वीथय इत्याहुः । `उरसाली वरश्वाली पृथुलो मध्यनामकः । आलीढः शोभनैरङ्गैः प्रत्यालीढस्तथापरः । उपधेनव उक्तं च पादचाली च सर्वगः । निर्दिष्टा वीथयस्त्वेताः` इति
छन्दः
वसन्ततिलका [१४: तभजजगग]
छन्दोविश्लेषणम्
| १ | २ | ३ | ४ | ५ | ६ | ७ | ८ | ९ | १० | ११ | १२ | १३ | १४ |
|---|---|---|---|---|---|---|---|---|---|---|---|---|---|
| अ | व्या | कु | लं | प्र | कृ | त | मु | त्त | र | धे | य | क | र्म |
| धा | राः | प्र | सा | ध | यि | तु | व्य | ति | की | र्ण | रू | पाः | |
| सि | द्धं | मु | खे | न | व | सु | वा | थि | षु | क | श्चि | द | श्वं |
| व | ल्गा | वि | भा | ग | कु | श | लो | ग | म | यां | ब | भू | व |
| त | भ | ज | ज | ग | ग | ||||||||
Other texts to read
About
Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.