अव्याकुलं प्रकृतमुत्तरधेयकर्म
धाराः प्रसाधयितुव्यतिकीर्णरूपाः ।
सिद्धं मुखे नवसु वाथिषु कश्चिदश्वं
वल्गाविभागकुशलो गमयांबभूव ॥

मल्लिनाथः अव्याकुलमिति ॥ वल्गा मुखरज्जुः सा चोरिक्षप्तादिभेदेन चतुर्दशविधा । तदुक्तं हयलीलावत्याम्-`उत्क्षिप्ता शिथिला तथोत्तरवती मन्दा च वैहायसी विक्षिप्तैककरार्धकंधरसमाकीर्णा विभक्ता तथा । अत्युक्षिप्ततलोद्धृते खलु तथा व्यागूढगोकर्णिके वाहानां कथिताश्चतुर्दशविधा वल्गाप्रभेदा अमी ॥` इति । तल्लक्षणानि तु तत्रैव द्रष्टव्यानि, विस्तरभयान्न लिख्यन्ते । तस्या विभागो विविच्य प्रयोगः तत्र कुशलो वल्गविभागकुशल इति । षड्विधप्रेरणाभिज्ञ इत्यर्थः । वल्गाग्रहणस्य रागाद्युपलक्षणत्वात् । यथाह भोजः-`वाहनं प्रतिवाहानां षड्विधं प्रेरणं विदुः । रागावल्गाकशापार्ष्णिप्रतोदरवभेदतः ॥` इति । कश्चित् कश्चन वाहकः अव्याकुलं २अव्यग्रम् । अत्रस्तमिति यावत् । प्रकर्षेण कृतं प्रकृतम् । सज्जितमित्यर्थः । मुखे मुखकर्मणि सिद्धं सिद्धिमन्तमश्वं चतुष्काख्ये गतिविशेषे मुखे । संस्थानविशेषादिविशेषणविशिष्टमश्वमित्यर्थः । तदुक्तं रेवतोत्तरे-`सृक्काधरोष्ठसितफेनलवाभिरामफूत्कारवायुपदमुन्नतकंधराग्रम् । नीत्वोपकुञ्चितमुखं नवलोहसाम्यमश्वं चतुष्कसमये मुखसिद्धमाहुः ॥` उत्तरधेयकर्म युद्धाद्युत्तरकाले धेयं विधेयं प्रयोज्यं यत्कर्म क्रिया तद्रूपा इत्यर्थः । अव्यतिकीर्णरूपा असंकीर्णरूपा धारा गतिभेदाः । `अश्वानां तु गतिर्धारा विभिन्ना सा च पञ्चधा । आस्कन्दितं धौरितकं रेचितं वल्गितं प्लुतम् ॥` इति वैजयन्ती । `गतयोऽमूः पञ्च धाराः` इत्यमरश्च । अश्वशास्त्रे तु संज्ञान्तरेणोक्ताः । `गतिः पुला चतुष्का च तद्वन्मध्यजवा परा । पूर्णवेगा तथा चान्या पञ्च धाराः प्रकीर्तिताः ॥ एकैका त्रिविधा धारा हयशिक्षाविधौ मता । लघ्वी मध्या तथा दीर्घा ज्ञात्वैता योजयेत् क्रमात् ॥` इति । तथा च पञ्चदश विभेदा भवन्ति । ताः पञ्च धाराः प्रसाधयितुं परिचेतुं नवसु वीथिषु संचारस्थानेषु गमयांबभूव । वीथयो नवाश्वानां सर्वत्र धारादार्ढ्यार्थाः परिमिताः प्रचारदेशाः । ताश्च तिस्र इत्येके नवेत्यन्ये । तत्रोत्तरपक्षमाश्रित्योक्तं कविना नवस्विति । यथाह भोजः-`वीथ्यस्तिस्रोऽथ धाराणां लध्वीमध्योत्तमाः क्रमात् । तासां स्याद्धनुषां मानमशीतिर्नवतिः शतम् ॥ श्रेष्ठमध्योत्तमानां तु वाजिनां वीथिकाः स्मृताः । नवानां कथिता वीथ्यो दुष्टानां क्रमणक्रमे । अन्येचामपि सर्वत्र गतिदार्ढ्यार्थमीरिताः ॥ समोन्नता सा विषमाम्बुकीर्णा शुद्धा नताग्रा तृणवीरुदाढ्या । स्थाणुप्रकीर्णोपलसंप्रकीर्णा पार्श्वोन्नताख्या नवधेति वीथ्यः ॥ सर्ववीथीषु यो वाजी दृढशिक्षासमन्वितः । तेन राजा रणे नित्यं मृगयायां मुदं व्रजेत् ॥` इति । अन्ये तु उरसाल्यादयो गतिविशेषा वीथय इत्याहुः । `उरसाली वरश्वाली पृथुलो मध्यनामकः । आलीढः शोभनैरङ्गैः प्रत्यालीढस्तथापरः । उपधेनव उक्तं च पादचाली च सर्वगः । निर्दिष्टा वीथयस्त्वेताः` इति
छन्दः वसन्ततिलका [१४: तभजजगग]
छन्दोविश्लेषणम्
१० ११ १२ १३ १४
व्या कु लं प्र कृ मु त्त धे र्म
धा राः प्र सा यि तु व्य ति की र्ण रू पाः
सि द्धं मु खे सु वा थि षु श्चि श्वं
ल्गा वि भा कु लो यां भू
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.