Loading data... On slow networks this could take a few minutes.
100%

उत्तीर्णभारलघुनाप्यलघूलपौघ-
सौहित्यनिःसहतरेण तरोरधस्तात् ।
रोमन्थमन्थरचलद्गुरुसास्नमासां-
चक्रे नीमीलदलसेक्षणमौक्षकेण ॥

मल्लिनाथः &#३२; उत्तीर्णेति ॥ उत्तीर्णभारमवरोपितावपनम् अत एव लघु तेन तथोक्तेन तथाप्यलघुना उलपानां बल्वजतृणानामोघेन यत्सौहित्यं पूर्तिः । `पर्याप्तमुपसंपन्नं पूर्तिः सौहित्यमुच्यते` इति हलायुधः । तेन निःसहतरेणात्यन्तमसहतरेण बाह्यभारावतारेऽप्यन्तर१तिभोजनाद्गुरूभवतेत्यर्थः । सहेर्निःपूर्वात्पचाद्यजन्तात्तरप् प्रत्ययः । `उलपा बल्वजाः प्रोक्ताः` इति विश्वः । औक्षकेण उक्ष्णां समूहेन । `गोत्रोक्ष(अष्टाध्यायी ४.२.३९ ) इत्यादिना वुञ् प्रत्ययः । तरोरधस्तात्तरुतले रोमन्थः पशूनां चर्वितचर्वणं तेन मन्थरं मन्दं चलन्त्यो गुर्व्यः सास्ना गलकम्बलानि यस्मिन्कर्मणि तद्यथा तथा । `सास्ना तु गलकम्बलः` इत्यमरः । किंच निमीलन्ति सुखान् मुकुलीभवन्ति अलसानि चेक्षणानि यस्मिन्कर्मणि तद्यथा तथा आसांचके आसितम् । `आस उपवेशने` भावे लिट् । `दयायासश्च` (३।१॥३७) इत्याम्प्रत्ययः । `कृञ्चानुप्रयुज्यते लिटि` (अष्टाध्यायी ३.१.४० ) इति कृजोऽनुप्रयोगः । इतःप्रभृत्याचतुष्टयात्स्वभावोक्तिः
छन्दः वसन्ततिलका [१४: तभजजगग]
छन्दोविश्लेषणम्
१० ११ १२ १३ १४
त्ती र्ण भा घु ना प्य घू पौ
सौ हि त्य निः रे रो स्तात्
रो न्थ न्थ द्गु रु सा स्न मा सां
क्रे नी मी से क्ष मौ क्ष के
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.