उत्खाय दर्पचलितेन सहैव रज्ज्वा
कीलं प्रयत्नपरमानवदुर्ग्रहेण ।
आकुल्यकारि कटकस्तुरगेण तूर्ण-
मश्वेति विद्रुतमनुद्रुताश्वमन्यम् ॥

मल्लिनाथः उत्खायेति ॥ दर्पाच्चलितेनोल्ललितेन अत एव रज्ज्वा पाशेन सह कीलं शङ्कुम् । `शङ्कावपि द्वयोः कीलः` । इत्यमरः। उत्खाय उत्पाट्य तूर्णं विद्रुतं धावन्तम् । अन्यमश्वम् । अश्वेत्यनुगवता वडवेति भ्रान्त्यानुधावता प्रयत्नपरैर्ग्रहीतुं प्रयतमानैरपि मानवैर्मनुष्यैर्दुर्ग्रहेण तुरंगेण कटकः शिबिरमाकुल्यकारि आकुलीकृतः । आकुलशब्दादभूततद्भावे चिः `अस्य च्चौ` (७/४।३२) इतीकारः । करोतेः कर्मणि लुङि चिणो लुक्
छन्दः वसन्ततिलका [१४: तभजजगग]
छन्दोविश्लेषणम्
१० ११ १२ १३ १४
त्खा र्प लि ते है ज्ज्वा
की लं प्र त्न मा दु र्ग्र हे
कु ल्य का रि स्तु गे तू र्ण
श्वे ति वि द्रु नु द्रु ता श्व न्यम्
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.