आयास्तमैक्षत जनशचटुलाग्रपादं
गच्छन्तमुच्चलितचामरचारुमश्वम् ।
नागं पुनर्मृदु सलीलनिमीलिताक्षं
सर्वःप्रयः खलु भवतयनुरूपचेष्टः ॥

मल्लिनाथः आयस्तमिति ॥ जनश्चटुलाग्रपादं चञ्चलपूर्वचरणं यथा तथा गच्छन्तम् । शीघ्रं धावन्तमित्यर्थः। उच्चलितैरुल्लसितैश्चामरैश्चारुमश्वमायस्तं सयत्नमाहृतं यथा तथा । `यसु प्रयत्ने` कर्तरि क्तः । क्लान्तं क्रियाविशेषणम् । ऐक्षत ईक्षितवान् । ईक्षतेर्लङ् `आडजादीनाम्` (अष्टाध्यायी ६.४.७२ ) `आटश्च` (अष्टाध्यायी ६.१.९० ) इति वृद्धिः । नागं पुनर्गजं तं सलीलं निमीलिते अक्षिणी यस्मिन्कर्मणि तत् । `बहुव्रीहौ सक्थ्यक्ष्णोः स्वाङ्गात्षच्` (अष्टाध्यायी ५.४.११३ ) मृदु मन्दं गच्छन्तमायस्तमैक्षत । कथं शीघ्रमन्दयोस्तुल्यदृष्टिरत आह-सर्वः प्राणी अनुरूपचेष्टः स्वजात्युचितव्यापारः सन् प्रीणातीति प्रियः प्रीतिकरो भवति खलु । `इगुपधज्ञाप्री-` (अष्टाध्यायी ३.१.१३५ ) इति कर्तरि क्तः । अर्थान्तरन्यासः
छन्दः वसन्ततिलका [१४: तभजजगग]
छन्दोविश्लेषणम्
१० ११ १२ १३ १४ १५
या स्त मै क्ष टु ला ग्र पा दं
च्छ न्त मु च्च लि चा चा रु श्वम्
ना गं पु र्मृ दु ली नि मी लि ता क्षं
र्वः प्र यः लु नु रू चे ष्टः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.