आरक्षमग्नमवमत्य सृणिं शिताग्र-
मेकः पलायत जवेन कृतार्तनादः ।
अन्यपुनर्मुहुरुदप्लवतास्तभार-
मन्योन्यतः पथि बताबिभातमिभोष्ट्रौ ॥

मल्लिनाथः आरक्षेति ॥ पथि मार्गे इभोष्ट्रावन्योन्यतोऽन्योन्यस्मादबिभितां भीतवन्तौ । `ञिभी भये` लङ् । `भियोऽन्यतरस्याम्` (अष्टाध्यायी ६.४.११५ ) इतीत्वम् । बतेत्यनयोरपि भीतिरिति खेदेऽतिविस्मये वा। `खेदानुकम्पासंतोषविस्मयामन्त्रणे बत` इत्यमरः । तत्र लिङ्गमाह-एक इभ आरक्षः कुम्भयोरधःप्रदेशस्तत्र मग्नं प्रविष्टं शिताग्रं तीक्ष्णमुखं सृणिमङ्कुशम् । `अङ्कुशोऽस्त्री सृणिर्द्वयोः` इत्यमरः । अवमत्यावधूय कृत आर्तनादो येन सः। अतिकरुणं क्रन्दन्नित्यर्थः । जवेन पलायत पलायितवान् । परापूर्वादयतेर्लुङ् । `उपसर्गस्यायतौ` (अष्टाध्यायी ८.२.१९ ) इति रेफस्य लत्वम् । अन्यः पुनरुष्ट्रस्तु अस्तभारं निरस्तभारं यथा तथा मुहुरुदप्लवतोत्प्लवितवान् । `प्लु गतौ` इति लङ् । स्वभावोक्तिः
छन्दः उपजातिः [११]
छन्दोविश्लेषणम्
१० ११ १२ १३ १४
क्ष ग्न त्य सृ णिं शि ता ग्र
मे कः ला वे कृ ता र्त ना दः
न्य पु र्मु हु रु प्ल ता स्त भा
न्यो न्य तः थि ता बि भा मि भो ष्ट्रौ
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.