त्रस्तः समस्तजनहासकरः करेणो-
स्तावत्खरः प्रखरमुल्ललयाञ्चकार ।
यावच्चलासनविलोलनितम्बबिम्ब-
विस्रस्तवस्त्रमवरोधवधूः पपात ॥

मल्लिनाथः त्रस्त इति ॥ करेणोरिभ्याः । `करेणुरिभ्यां स्त्री नेभे` इत्यमरः । `भीत्रार्थानां भयहेतुः` (अष्टाध्यायी १.४.२५ ) इत्यपादानत्वम् । त्रस्तो भीत: खरो गर्दभः समस्तजनस्य&#३२; हासं करोतीति तत्करः सन् । `कृञो हेतु-` (अष्टाध्यायी ३.२.२० ) इत्यादिना टप्रत्ययः । तावत्तदवधि प्रखरं भृशमुल्ललयांचकार उत्पपात । यावत् चलात् स्थानचलितादासनात् पल्ययनात् विलोलोऽपसृतस्तस्मान्नितम्बबिम्बाद्विस्रस्तं वस्त्रं यस्मिन्कर्मणि तद्यथा तथा अवरोधवधूः पपात । स्वभावोक्तिः
छन्दः वसन्ततिलका [१४: तभजजगग]
छन्दोविश्लेषणम्
१० ११ १२ १३ १४
त्र स्तः स्त हा रः रे णो
स्ता त्ख रः प्र मु ल्ल या ञ्च का
या च्च ला वि लो नि म्ब बि म्ब
वि स्र स्त स्त्र रो धूः पा
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.