हेम्नः स्थलीषु परितः परिवृत्य वाजी
धुन्वन्वपुः प्रविततायतकेशपङ्क्तिः ।
ज्वलाकणारुणरुचा निकरेणरेणोः
शेषेणतेजसःइवोल्लसता रराज ॥

मल्लिनाथः हेम्न इति ॥ हेम्नः स्थलीषु स्वर्णभूमिषु । `जानपद-` (अष्टाध्यायी ४.१.४२ ) इत्यादिनाऽकृत्रिमार्थे ङीष्प्रत्ययः । परितः परिवृत्त्य परिवृत्तिं कृत्वा वपुर्धन्वन् धूलिनिर्गमाय कम्पयन् अत एव प्रवितता विश्लिष्टा आयता च केशपङ्क्ती रोमसंघातो यस्य स वाजी ज्वालाकणाः स्फुलिङ्गास्तद्वदरुणरुचा रक्तवर्णेन रेणोर्निकरेणोल्लसता अत्युत्कटतया बहिरुद्गच्छता तेजसोऽन्तःसारस्य दर्पस्य शेषेणातिरेकेणेव रराज । उत्प्रेक्षालंकारः
छन्दः उपजातिः [११]
छन्दोविश्लेषणम्
१० ११ १२ १३ १४
हे म्नः स्थ ली षु रि तः रि वृ त्य वा जी
धु न्व न्व पुः प्र वि ता के ङ्क्तिः
ज्व ला णा रु रु चा नि रे रे णोः
शे षे ते सः वो ल्ल ता रा
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.