आजिघ्रति प्रणतमूर्धनि बाह्लजेऽश्वे
तिस्याङ्गसङ्गमसुखानुभवोत्सुकायाः ।
नासाविरोकपवनोल्लसितं तनीयो
रोमाञ्चतामिव जगाम रजः पृथिव्याः ॥

मल्लिनाथः आजिघ्रतीति ॥ बाह्निरश्वयोनिर्देशविशेषः, तज्जे, बाह्निजेऽश्वे । `बाह्निदेश्ये` इति पाठे विशेष्याप्रयोगो गम्यमानत्वादित्युक्तम् ।१ `दिगादिभ्यो यत्` (अष्टाध्यायी १.३.५४ ) इति भवार्थे यत्प्रत्ययः । तदन्तविधिस्तु मृग्यः। प्रणतमूर्धनि नम्रशिरसि कृतप्रणामे च आजिघ्रति गन्धं गृह्णति चुम्बति च सति । स्वभावात्कामाच्चेति भावः । नासाविरोकं नासारन्धं तस्य पवनो निःश्वासस्तेनोल्लसितमुद्भूतं तनीयस्तनुतरं रजस्तस्याश्वस्याङ्गसङ्गमेन वेल्लनप्रयुक्तेन यत्सुखं तस्यानुभवे उत्सुकाया उत्कण्ठितायाः पृथिव्या रोमाञ्चतां जगामेवेत्युत्प्रेक्षा । सा च भूतुरङ्गमयोः प्रतीयमानचेतननायकाद्यभेदाध्यवसायादित्यवधेयम् । विरोचतेऽनेनेति विरोकम् । घञ्प्रत्ययः । `चजोः कु घिण्यतोः` (अष्टाध्यायी ७.३.५२ ) इति कुत्वम् । लिङ्गमशिष्यं लोकाश्रयत्वाल्लिङ्गस्य` इति नपुंसकत्वाविरोधः । अत एव छिद्रं निर्व्यथनं रोकम्` इत्यमरः । `रोको रश्मौ बिले न पुम्` इति वैजयन्ती । रोको दीप्तौ बिले रोकम्` इति विश्वः । ये तु केनाप्यभिप्रायेण `विरेकपवन` इति पठन्ति तेषां परोत्सर्गैकजीविनामितिवदपानीयपवनप्रतीतेरश्लीलाख्यो दोषः। `अश्लीलं तदमङ्गल्यजुगुप्साव्रीडधीकरम्` इति लक्षणात्
छन्दः वसन्ततिलका [१४: तभजजगग]
छन्दोविश्लेषणम्
१० ११ १२ १३ १४
जि घ्र ति प्र मू र्ध नि बा ह्ल जे ऽश्वे
ति स्या ङ्ग ङ्ग सु खा नु वो त्सु का याः
ना सा वि रो नो ल्ल सि तं नी यो
रो मा ञ्च ता मि गा जः पृ थि व्याः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.