आजिघ्रति प्रणतमूर्धनि बाह्लजेऽश्वे
तिस्याङ्गसङ्गमसुखानुभवोत्सुकायाः ।
नासाविरोकपवनोल्लसितं तनीयो
रोमाञ्चतामिव जगाम रजः पृथिव्याः ॥
आजिघ्रति प्रणतमूर्धनि बाह्लजेऽश्वे
तिस्याङ्गसङ्गमसुखानुभवोत्सुकायाः ।
नासाविरोकपवनोल्लसितं तनीयो
रोमाञ्चतामिव जगाम रजः पृथिव्याः ॥
तिस्याङ्गसङ्गमसुखानुभवोत्सुकायाः ।
नासाविरोकपवनोल्लसितं तनीयो
रोमाञ्चतामिव जगाम रजः पृथिव्याः ॥
मल्लिनाथः
आजिघ्रतीति ॥ बाह्निरश्वयोनिर्देशविशेषः, तज्जे, बाह्निजेऽश्वे । `बाह्निदेश्ये` इति पाठे विशेष्याप्रयोगो गम्यमानत्वादित्युक्तम् ।१ `दिगादिभ्यो यत्` (अष्टाध्यायी १.३.५४ ) इति भवार्थे यत्प्रत्ययः । तदन्तविधिस्तु मृग्यः। प्रणतमूर्धनि नम्रशिरसि कृतप्रणामे च आजिघ्रति गन्धं गृह्णति चुम्बति च सति । स्वभावात्कामाच्चेति भावः । नासाविरोकं नासारन्धं तस्य पवनो निःश्वासस्तेनोल्लसितमुद्भूतं तनीयस्तनुतरं रजस्तस्याश्वस्याङ्गसङ्गमेन वेल्लनप्रयुक्तेन यत्सुखं तस्यानुभवे उत्सुकाया उत्कण्ठितायाः पृथिव्या रोमाञ्चतां जगामेवेत्युत्प्रेक्षा । सा च भूतुरङ्गमयोः प्रतीयमानचेतननायकाद्यभेदाध्यवसायादित्यवधेयम् । विरोचतेऽनेनेति विरोकम् । घञ्प्रत्ययः । `चजोः कु घिण्यतोः` (अष्टाध्यायी ७.३.५२ ) इति कुत्वम् । लिङ्गमशिष्यं लोकाश्रयत्वाल्लिङ्गस्य` इति नपुंसकत्वाविरोधः । अत एव छिद्रं निर्व्यथनं रोकम्` इत्यमरः । `रोको रश्मौ बिले न पुम्` इति वैजयन्ती । रोको दीप्तौ बिले रोकम्` इति विश्वः । ये तु केनाप्यभिप्रायेण `विरेकपवन` इति पठन्ति तेषां परोत्सर्गैकजीविनामितिवदपानीयपवनप्रतीतेरश्लीलाख्यो दोषः। `अश्लीलं तदमङ्गल्यजुगुप्साव्रीडधीकरम्` इति लक्षणात्
छन्दः
वसन्ततिलका [१४: तभजजगग]
छन्दोविश्लेषणम्
| १ | २ | ३ | ४ | ५ | ६ | ७ | ८ | ९ | १० | ११ | १२ | १३ | १४ |
|---|---|---|---|---|---|---|---|---|---|---|---|---|---|
| आ | जि | घ्र | ति | प्र | ण | त | मू | र्ध | नि | बा | ह्ल | जे | ऽश्वे |
| ति | स्या | ङ्ग | स | ङ्ग | म | सु | खा | नु | भ | वो | त्सु | का | याः |
| ना | सा | वि | रो | क | प | व | नो | ल्ल | सि | तं | त | नी | यो |
| रो | मा | ञ्च | ता | मि | व | ज | गा | म | र | जः | पृ | थि | व्याः |
| त | भ | ज | ज | ग | ग | ||||||||
Other texts to read
About
Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.