गत्यूनमर्गगतयोऽपि गतोरुमार्गाः
स्वैरं समाचकृषिरे भुवि वेल्लनाय ।
दर्पोदयोल्लसितफेनजलानुसार-
संलक्ष्यपल्ययनवर्ध्रपदास्तुरङ्गाः ॥

मल्लिनाथः गत्यूनेति ॥ गत्यूना विशिष्टगमनहीना मार्गगतयोऽध्वगमनानि येषां ते तथापि गतोरुमार्गाः प्रस्थितदूराध्वान इति विरोधः । अपिर्विरोधे । गत्यूना मार्गी मृगसंबन्धिनी गतिर्येषां त इति विरोधपरिहारः । अत एव विरोधाभासोऽलंकारः। दर्पस्य तेजसोऽन्तःसारस्योदयेनौत्कट्येनोल्लसितस्योद्धतस्य फेनजलस्य फेनीभूतोद्धतस्वेदोदकस्यानुसारेण प्रसारेण संलक्ष्याणि पल्ययनवर्ध्राणामासनबन्धचर्मवरत्राणां पदानि तन्नोदनान्निम्नीभूतस्थलानि येषां ते तथोक्ताः । तुरङ्गा&#३२; भुवि वेल्लनायाङ्गपरिवर्तनाय स्वैरं मन्दं समाचकृषिरे समाकृष्टाः । अध्वश्रमापनोदनार्थमिति भावः । वर्धते दृढबन्धनाद्दीर्घीभवतीति वर्ध्रम् । `वृधिवपिभ्यां रन्` (उ० १८५) इत्यौणादिके रन्प्रत्यये लघूपधगुणो रपरः । `वधं त्रपुवरत्रयोः` इति विश्वः । अमरस्तु `नध्री वर्ध्री वरत्रा स्यात्` इत्याह । तदा `ष्ट्रन्` इत्यौणादिके ष्ट्रन्प्रत्यये पूर्ववद्गुणो रपरः प्रत्ययतकारस्य `झषस्तथोर्धोऽधः` (अष्टाध्यायी ८.२.४० ) इति धत्वे षित्त्वात्स्त्रीलिङ्गे ङीष्
छन्दः वसन्ततिलका [१४: तभजजगग]
छन्दोविश्लेषणम्
१० ११ १२ १३ १४
त्यू र्ग यो ऽपि तो रु मा र्गाः
स्वै रं मा कृ षि रे भु वि वे ल्ल ना
र्पो यो ल्ल सि फे ला नु सा
सं क्ष्य ल्य र्ध्र दा स्तु ङ्गाः
About

Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.