आवर्तिनः शुभफलप्रदशुक्तियुक्ताः
संपन्नदेवमणयो भृतरन्ध्रभागाः ।
अश्वाः प्यधुर्वसुमतीमतिरोचमाना-
स्तूर्णं पयोधय इवोर्मिभिरापततन्तः ॥
आवर्तिनः शुभफलप्रदशुक्तियुक्ताः
संपन्नदेवमणयो भृतरन्ध्रभागाः ।
अश्वाः प्यधुर्वसुमतीमतिरोचमाना-
स्तूर्णं पयोधय इवोर्मिभिरापततन्तः ॥
संपन्नदेवमणयो भृतरन्ध्रभागाः ।
अश्वाः प्यधुर्वसुमतीमतिरोचमाना-
स्तूर्णं पयोधय इवोर्मिभिरापततन्तः ॥
मल्लिनाथः
आवर्तिन इति ॥ आवर्तिनो दशावर्तवन्तः । `प्रशंसायाम्-` (अष्टाध्यायी ५.३.६६ ) इति णिनिः । ते च `द्वावुरस्यौ शिरस्यौ द्वौ द्वौ द्वौ रन्ध्रोपरन्ध्रयोः । एको भाले ह्यपाने च दशावर्ता ध्रुवाः स्मृताः॥` इत्युक्ता दश ध्रुवाख्या विवक्षिताः । अन्येषामनन्तरमेव पृथगभिधानात् । अन्यत्र तु जलभ्रमवन्तः । `स्यादावर्तोऽम्भसां भ्रमः` इत्यमरः । रोमसंस्थाने तु तत्साम्याव्द्यपदेशः । तदुक्तम्-`आवर्तसाम्यादावर्तो रोमसंस्थानमङ्गिनाम्` इति । शुभफलानि राज्यलाभादीनि प्रददतीति शुभफलप्रदाः । `प्रे दाज्ञः` (अष्टाध्यायी ३.२.६ ) इति कः । ताभिः शुक्तिभिः संस्थानैरावर्तविशेषैर्युक्ताः । तदुक्तम्`वक्षःस्थाः शुक्तयस्तिस्र ऊर्ध्वरोमा जयावहाः` इति । अन्यत्र शुभफलानि मुक्ताफलानि तत्प्रदाः शुक्तयो मुक्तास्फोटाः ताभिर्युक्ताः । `मुक्तास्फोटे हयावर्ते शुक्तिः शङ्खकपालयोः` इति यादवः । संपन्नाः समग्रा देवमणयो निगालावर्ताः, कौस्तुभादिदिव्यमणयश्च येषां ते `आवर्तो रोमजो देवमणिस्त्वेष निगालजः। निगालस्तु गलोद्देशे सकृत्` इति वैजयन्ती । भृताः पूर्णा रन्ध्रभागाः पार्श्वदेशाः, निम्नप्रदेशाश्च येषां ते । अतिशयिता रोचमानाः कण्ठावर्ता येषां तेऽतिरोचमानाः । कण्ठजो रोचमानश्च स्वामिसौभाग्यवर्धनः` इति वैजयन्ती । अन्यत्र त्वत्यन्तं दीप्यमाना इत्यर्थः । ऊर्मिभिर्गतिविशेषैर्वीचिभिश्च आपतन्त आधावन्तः । `पङ्क्तीकृतानामश्वानां नमनोन्नमनाकृतिः । अतिवेगसमायुक्तो गतिरूर्मिरुदाहृता ॥` इति वैजयन्ती । ईदृशोऽश्वाः पयोधय इव तूर्णं वसुमतीं प्यधुः छादयन्ति स्म । `अपिधानतिरोधानपिधानाच्छादनानि च` इत्यमरः । अपिपूर्वाद्दधातेर्लुङ् । `वष्टि&#३२; भागुरिरल्लोपमवाप्योरुपसर्गयोः` इत्यकारलोपः । एकनालावलम्बिफलद्वयवदेकशब्देनार्थद्वयप्रतीतेरर्थश्लेषोऽयं प्रकृताप्रकृतगोचरः । उपमा त्वङ्गमिति संकरः
छन्दः
वसन्ततिलका [१४: तभजजगग]
छन्दोविश्लेषणम्
| १ | २ | ३ | ४ | ५ | ६ | ७ | ८ | ९ | १० | ११ | १२ | १३ | १४ | १५ |
|---|---|---|---|---|---|---|---|---|---|---|---|---|---|---|
| आ | व | र्ति | नः | शु | भ | फ | ल | प्र | द | शु | क्ति | यु | क्ताः | |
| सं | प | न्न | दे | व | म | ण | यो | भृ | त | र | न्ध्र | भा | गाः | |
| अ | श्वाः | प्य | धु | र्व | सु | म | ती | म | ति | रो | च | मा | ना | |
| स्तू | र्णं | प | यो | ध | य | इ | वो | र्मि | भि | रा | प | त | त | न्तः |
| त | भ | ज | ज | ग | ग | |||||||||
Other texts to read
About
Sanskrit Sahitya is a free, open-access digital library of classical Sanskrit literature with AI-powered tools and translations.